Sukta 10.93
अधीन्न्वत्र सप्ततिं च सप्त च । सद्यो दिदिष्ट तान्वः सद्यो दिदिष्ट पार्थ्यः सद्यो दिदिष्ट मायवः ॥
अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ । स॒द्यो दि॑दिष्ट॒ तान्व॑: स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ॥
adhī́n nvàtra saptatíṃ ca sapta ca | sadyó didiṣṭa tā́n vaḥ sadyó didiṣṭa pārthyáḥ sadyó didiṣṭa māyávaḥ ||
He has set here seventy and seven; immediately he has arranged them for you—immediately the earthly foundation, immediately the formative powers of the working consciousness.
अधि॑ इत् । नु । अत्र॑ । स॒प्त॒तिम् । च॒ । स॒प्त । च॒ । स॒द्यः । दि॒दि॒ष्ट॒ । तान्वः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । पा॒र्थ्यः॑ । स॒द्यः । दि॒दि॒ष्ट॒ । माय॒वः ॥अधि इत् । नु । अत्र । सप्ततिम् । च । सप्त । च । सद्यः । दिदिष्ट । तान्वः । सद्यः । दिदिष्ट । पार्थ्यः । सद्यः । दिदिष्ट । मायवः ॥adhiit | nu | atra | saptatim | ca | sapta | ca | sadyaḥ | didiṣṭa | tānvaḥ | sadyaḥ | didiṣṭa | pārthyaḥ | sadyaḥ | didiṣṭa | māyavaḥ