Sukta 10.93
प्र तद्दुःशीमे पृथवाने वेने प्र रामे वोचमसुरे मघवत्सु । ये युक्त्वाय पञ्च शतास्मयु पथा विश्राव्येषाम् ॥
प्र तद्दु॒:शीमे॒ पृथ॑वाने वे॒ने प्र रा॒मे वो॑च॒मसु॑रे म॒घव॑त्सु । ये यु॒क्त्वाय॒ पञ्च॑ श॒तास्म॒यु प॒था वि॒श्राव्ये॑षाम् ॥
prá tád duḥśī́me pṛ́thavāne véne prá rā́me vocam ásure maghávat-su | yé yuktvā́ya páñca śatā́smayu pathā́ viśrā́vyeṣām ||
That I proclaim forth in the hard strait and the wide expanse, in the seeking delight, among the mighty lords of power: those who, for the act of yoking, have made five hundred paths of our aspiration widely heard.
प्र । तत् । दुः॒ऽशीमे॑ । पृथ॑वाने । वे॒ने । प्र । रा॒मे । वो॒च॒म् । असु॑रे । म॒घव॑त्ऽसु । ये । यु॒क्त्वाय॑ । पञ्च॑ । श॒ता । अ॒स्म॒ऽयु । प॒था । वि॒ऽश्रावि॑ । ए॒षा॒म् ॥प्र । तत् । दुःशीमे । पृथवाने । वेने । प्र । रामे । वोचम् । असुरे । मघवत्सु । ये । युक्त्वाय । पञ्च । शता । अस्मयु । पथा । विश्रावि । एषाम् ॥pra | tat | duḥ-śīme | pṛthavāne | vene | pra | rāme | vocam | asure | maghavat-su | ye | yuktvāya | pañca | śatā | asma-yu | pathā | vi-śrāvi | eṣām