Sukta 10.93
महि द्यावापृथिवी भूतमुर्वी नारी यह्वी न रोदसी सदं नः । तेभिर्नः पातं सह्यस एभिर्नः पातं शूषणि ॥
महि॑ द्यावापृथिवी भूतमु॒र्वी नारी॑ य॒ह्वी न रोद॑सी॒ सदं॑ नः । तेभि॑र्नः पातं॒ सह्य॑स ए॒भिर्न॑: पातं शू॒षणि॑ ॥
mahi dyāvāpṛthivī bhūtam urvī nārī yahvī na rodasī sadam naḥ | tebhiḥ naḥ pātaṃ sahyasa ebhir naḥ pātaṃ śūṣaṇi ||
Great have Heaven and Earth become—wide, motherly, strong—the two worlds for us always. With them protect us from overpowering forces; with them protect us from the assailing violence.
महि॑ । द्या॒वा॒पृ॒थि॒वी॒ इति॑ । भू॒त॒म् । उ॒र्वी इति॑ । नारी॒ इति॑ । य॒ह्वी इति॑ । न । रोद॑सी॒ इति॑ । सद॑म् । नः॒ । तेभिः॑ । नः॒ । पा॒त॒म् । सह्य॑सः । ए॒भिः । नः॒ । पा॒त॒म् । शू॒षणि॑ ॥महि । द्यावापृथिवी इति । भूतम् । उर्वी इति । नारी इति । यह्वी इति । न । रोदसी इति । सदम् । नः । तेभिः । नः । पातम् । सह्यसः । एभिः । नः । पातम् । शूषणि ॥mahi | dyāvāpṛthivī iti | bhūtam | urvī iti | nārī iti | yahvī iti | na | rodasī iti | sadam | naḥ | tebhiḥ | naḥ | pātam | sahyasaḥ | ebhiḥ | naḥ | pātam | śūṣaṇi