Sukta 10.91
त्वामिदत्र वृणते त्वायवो होतारमग्ने विदथेषु वेधसः । यद्देवयन्तो दधति प्रयांसि ते हविष्मन्तो मनवो वृक्तबर्हिषः ॥
त्वामिदत्र॑ वृणते त्वा॒यवो॒ होता॑रमग्ने वि॒दथे॑षु वे॒धस॑: । यद्दे॑व॒यन्तो॒ दध॑ति॒ प्रयां॑सि ते ह॒विष्म॑न्तो॒ मन॑वो वृ॒क्तब॑र्हिषः ॥
tvā́m íd átra vṛṇate tvā́yavo hótāram agne vidáth eṣu vedhásaḥ | yád deva-yánto dádhati práyāṃsi te havíṣmanto mánavo vṛktá-barhiṣaḥ ||
Here the seekers of you choose you, O Agni, as the Hotṛ in the sessions, the wise builders; when yearning for the Divine they set in place for you their forward offerings—men of the Manu, rich in oblation, with the strewn sacred grass prepared.
त्वाम् । इत् । अत्र॑ । वृ॒ण॒ते॒ । त्वा॒ऽयवः॑ । होता॑रम् । अ॒ग्ने॒ । वि॒दथे॑षु । वे॒धसः॑ । यत् । दे॒व॒ऽयन्तः॑ । दध॑ति । प्रयां॑सि । ते॒ । ह॒विष्म॑न्तः । मन॑वः । वृ॒क्तऽब॑र्हिषः ॥त्वाम् । इत् । अत्र । वृणते । त्वायवः । होतारम् । अग्ने । विदथेषु । वेधसः । यत् । देवयन्तः । दधति । प्रयांसि । ते । हविष्मन्तः । मनवः । वृक्तबर्हिषः ॥tvām | it | atra | vṛṇate | tvāyavaḥ | hotāram | agne | vidatheṣu | vedhasaḥ | yat | deva-yantaḥ | dadhati | prayāṃsi | te | haviṣmantaḥ | manavaḥ | vṛkta-barh iṣaḥ