Sukta 10.91
मेधाकारं विदथस्य प्रसाधनमग्निं होतारं परिभूतमं मतिम् । तमिदर्भे हविष्या समानमित्तमिन्महे वृणते नान्यं त्वत् ॥
मे॒धा॒का॒रं वि॒दथ॑स्य प्र॒साध॑नम॒ग्निं होता॑रं परि॒भूत॑मं म॒तिम् । तमिदर्भे॑ ह॒विष्या स॑मा॒नमित्तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ॥
medhā-kāráṃ vidáthasya pra-sā́dhanam agníṃ hótāraṃ pari-bhūtámam matím | tám íd árbhe havíṣyā samānám ít tám ín mahé vṛṇate nā́nyaṃ tvát ||
Agni, the fashioner of understanding, the accomplisher of the session, the Hotṛ, the most surpassing Intelligence—him indeed, the same One, we choose in the offering, in the small and in the great; none other than you do we take for our vast work.
मे॒धा॒ऽका॒रम् । वि॒दथ॑स्य । प्र॒ऽसाध॑नम् । अ॒ग्निम् । होता॑रम् । प॒रि॒ऽभूत॑मम् । म॒तिम् । तम् । इत् । अर्भे॑ । ह॒विषि॑ । आ । स॒मा॒नम् । इत् । तम् । इत् । म॒हे । वृ॒ण॒ते॒ । न । अ॒न्यम् । त्वत् ॥मेधाकारम् । विदथस्य । प्रसाधनम् । अग्निम् । होतारम् । परिभूतमम् । मतिम् । तम् । इत् । अर्भे । हविषि । आ । समानम् । इत् । तम् । इत् । महे । वृणते । न । अन्यम् । त्वत् ॥medhākāram | vidathasya | pra-sādhanam | agnim | hotāram | pari-bhūtamam | matim | tam | it | arbhe | haviṣi | ā | samānam | it | tam | it | mahe | vṛṇate | na | anyam | tvat