Sukta 10.91
तवाग्ने होत्रं तव पोत्रमृत्वियं तव नेष्ट्रं त्वमग्निदृतायतः । तव प्रशास्त्रं त्वमध्वरीयसि ब्रह्मा चासि गृहपतिश्च नो दमे ॥
तवा॑ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः । तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे॑ ॥
távāgne hótraṃ táva pótram ṛtviyáṃ táva néṣṭraṃ tvám agníd ṛtá-yataḥ | táva pra-śā́straṃ tvám adhvarīyasi brahmā́ cā́si gṛhá-patiś ca no dám e ||
Yours, O Agni, is the Hotṛ-work; yours the Potṛ-work in the right season; yours the leading (Neṣṭṛ) and you are the Agnīdh who sets the rite in truth. Yours is the directing word; you yourself become the Adhvaryu. You are also the Brahman, and the Lord of the house in our dwelling.
तव॑ । अ॒ग्ने॒ । हो॒त्रम् । तव॑ । पो॒त्रम् । ऋ॒त्विय॑म् । तव॑ । ने॒ष्ट्रम् । त्वम् । अ॒ग्नित् । ऋ॒त॒ऽय॒तः । तव॑ । प्र॒ऽशा॒स्त्रम् । त्वम् । अ॒ध्व॒रि॒ऽय॒सि॒ । ब्र॒ह्मा । च॒ । असि॑ । गृ॒हऽप॑तिः । च॒ । नः॒ । दमे॑ ॥तव । अग्ने । होत्रम् । तव । पोत्रम् । ऋत्वियम् । तव । नेष्ट्रम् । त्वम् । अग्नित् । ऋतयतः । तव । प्रशास्त्रम् । त्वम् । अध्वरियसि । ब्रह्मा । च । असि । गृहपतिः । च । नः । दमे ॥tava | agne | hotram | tava | potram | ṛtviyam | tava | neṣṭram | tvam | agnid | ṛta-yataḥ | tava | pra-śāstram | tvam | adhvari-yasi | brahmā | ca | asi | gṛha-patiḥ | ca | naḥ | dame