Sukta 10.91
वातोपधूत इषितो वशाँ अनु तृषु यदन्ना वेविषद्वितिष्ठसे । आ ते यतन्ते रथ्यो यथा पृथक्छर्धांस्यग्ने अजराणि धक्षतः ॥
वातो॑पधूत इषि॒तो वशाँ॒ अनु॑ तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से । आ ते॑ यतन्ते र॒थ्यो॒३॒॑ यथा॒ पृथ॒क्छर्धां॑स्यग्ने अ॒जरा॑णि॒ धक्ष॑तः ॥
vā́topadhūta iṣitó vaśā́m̐ ánu tṛ́ṣu yád ánnā vevíṣad ví-tiṣṭhase | ā́ te yatante rathyò yáthā pṛ́thak chárdhāṃsy agne ajárāṇi dhákṣataḥ ||
Driven by the wind, urged on, you move along the channels; when the foods quiver, you stand out in your spreading might. Toward you the enduring companies strive, O Agni, as if on converging roads—each in its own way—so that they may be kindled into an unaging flame.
वात॑ऽउपधूतः । इ॒षि॒तः । वशा॑न् । अनु॑ । तृ॒षु । यत् । अन्ना॑ । वेवि॑षत् । व्ऽतिष्ठ॑से । आ । ते॒ । य॒त॒न्ते॒ । र॒थ्याः॑ । यथा॑ । पृथ॑क् । शर्धां॑सि । अ॒ग्ने॒ । अ॒जरा॑णि । धक्ष॑तः ॥वातउपधूतः । इषितः । वशान् । अनु । तृषु । यत् । अन्ना । वेविषत् । व्तिष्ठसे । आ । ते । यतन्ते । रथ्याः । यथा । पृथक् । शर्धांसि । अग्ने । अजराणि । धक्षतः ॥vāta-upadhūtaḥ | iṣitaḥ | vaśān | anu | tṛṣu | yat | annā | veviṣat | v-tiṣṭhase | ā | te | yatante | rathyāḥ | yathā | pṛthak | śardhāṃsi | agne | ajarāṇi | dhakṣataḥ