Sukta 10.91
तव श्रियो वर्ष्यस्येव विद्युतश्चित्राश्चिकित्र उषसां न केतवः । यदोषधीरभिसृष्टो वनानि च परि स्वयं चिनुषे अन्नमास्ये ॥
तव॒ श्रियो॑ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तव॑: । यदोष॑धीर॒भिसृ॑ष्टो॒ वना॑नि च॒ परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒स्ये॑ ॥
táva śríyo varṣyásyeva vidyútaś citrā́ś cikitre uṣásāṃ ná ketávaḥ | yád oṣádhīr abhí-sṛṣṭo vánāni ca pár i svayáṃ cinúṣe ánn am ā́sy e ||
Your splendours are many-coloured, like the lightnings of the rain-cloud, like the signals of the Dawns. When you are released upon the herbs and upon the forests, you yourself gather the food into your mouth—taking into you the essence that will become strength in us.
तव॑ । श्रियः॑ । व॒र्ष्य॑स्यऽइव । वि॒ऽद्युतः॑ । चि॒त्राः । चि॒कि॒त्रे॒ । उ॒षसा॑म् । न । के॒तवः॑ । यत् । ओष॑धीः । अ॒भिऽसृ॑ष्टः । वना॑नि । च॒ । परि॑ । स्व॒यम् । चि॒नु॒षे । अन्न॑म् । आ॒स्ये॑ ॥तव । श्रियः । वर्ष्यस्यइव । विद्युतः । चित्राः । चिकित्रे । उषसाम् । न । केतवः । यत् । ओषधीः । अभिसृष्टः । वनानि । च । परि । स्वयम् । चिनुषे । अन्नम् । आस्ये ॥tava | śriyaḥ | varṣyasya-iva | vi-dyutaḥ | citrāḥ | cikitre | uṣasām | na | ketavaḥ | yat | oṣadhīḥ | abhi-sṛṣṭaḥ | vanāni | ca | pari | svayam | cinuṣe | annam | āsye