Sukta 10.91
प्रजानन्नग्ने तव योनिमृत्वियमिळायास्पदे घृतवन्तमासदः । आ ते चिकित्र उषसामिवेतयोऽरेपसः सूर्यस्येव रश्मयः ॥
प्र॒जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा॑यास्प॒दे घृ॒तव॑न्त॒मास॑दः । आ ते॑ चिकित्र उ॒षसा॑मि॒वेत॑योऽरे॒पस॒: सूर्य॑स्येव र॒श्मय॑: ॥
pra-jā́nann agne táva yónim ṛtviyám iḷā́yāḥ padé ghṛtávantam ā́sadaḥ | ā́ te cikitre uṣásām ivá etáyo ’répasaḥ sū́ryasya iva raśmáyaḥ ||
Knowing, O Agni, your season-right womb, they have sat down upon the step of Iḷā, rich with clarity and sweetness. Toward you the stainless impulses move—like the goings of the Dawns, like the Sun’s rays—seeking your illumined presence.
प्र॒ऽजा॒नन् । अ॒ग्ने॒ । तव॑ । योनि॑म् । ऋ॒त्विय॑म् । इळा॑याः । प॒दे । घृ॒तऽव॑न्तम् । आ । अ॒स॒दः॒ । आ । ते॒ । चि॒कि॒त्रे॒ । उ॒षसा॑म्ऽइ॒व । एत॑यः । अ॒रे॒पसः॑ । सूर्य॑स्यऽइव । र॒श्मयः॑ ॥प्रजानन् । अग्ने । तव । योनिम् । ऋत्वियम् । इळायाः । पदे । घृतवन्तम् । आ । असदः । आ । ते । चिकित्रे । उषसाम्इव । एतयः । अरेपसः । सूर्यस्यइव । रश्मयः ॥pra-jānan | agne | tava | yonim | ṛtviyam | iḷāyāḥ | pade | ghṛta-vantam | ā | asadaḥ | ā | te | cikitre | uṣasām-iva | etayaḥ | arepasaḥ | sūryasya-iva | raśmayaḥ