Sukta 10.91
सुदक्षो दक्षैः क्रतुनासि सुक्रतुरग्ने कविः काव्येनासि विश्ववित् । वसुर्वसूनां क्षयसि त्वमेक इद्द्यावा च यानि पृथिवी च पुष्यतः ॥
सु॒दक्षो॒ दक्षै॒: क्रतु॑नासि सु॒क्रतु॒रग्ने॑ क॒विः काव्ये॑नासि विश्व॒वित् । वसु॒र्वसू॑नां क्षयसि॒ त्वमेक॒ इद्द्यावा॑ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ॥
su-dákṣo dákṣaiḥ krátunāsi su-krátur agné kavíḥ kā́vyenāsi viśvá-vit | vásur vásūnāṃ kṣáyasi tvám éka íd dyā́vā ca yā́ni pṛthivī́ ca púṣyataḥ ||
O Agni, you are perfectly skilled by your powers of skill; by your conscious will you are the good-willed. You are the seer by the inspired word, the knower of all. You alone dwell as the true Treasure among treasures; and it is you who foster and increase all that Heaven and Earth bring to growth.
सु॒ऽदक्षः॑ । दक्षः॑ । क्रतु॑ना । अ॒सि॒ । सु॒ऽक्रतुः॑ । अग्ने॑ । क॒विः । काव्ये॑न । अ॒सि॒ । वि॒श्व॒ऽवित् । वसुः॑ । वसू॑नाम् । क्ष॒य॒सि॒ । त्वम् । एकः॑ । इत् । द्यावा॑ । च॒ । यानि॑ । पृ॒थि॒वी इति॑ । च॒ । पुष्य॑तः ॥सुदक्षः । दक्षः । क्रतुना । असि । सुक्रतुः । अग्ने । कविः । काव्येन । असि । विश्ववित् । वसुः । वसूनाम् । क्षयसि । त्वम् । एकः । इत् । द्यावा । च । यानि । पृथिवी इति । च । पुष्यतः ॥su-dakṣaḥ | dakṣaḥ | kratunā | asi | su-kratuḥ | agne | kaviḥ | kāvyena | asi | viśva-vit | vasuḥ | vasūnām | kṣayasi | tvam | ekaḥ | it | dyāvā | ca | yāni | pṛthivī iti | ca | puṣyataḥ