Sukta 10.91
स दर्शतश्रीरतिथिर्गृहेगृहे वनेवने शिश्रिये तक्ववीरिव । जनंजनं जन्यो नाति मन्यते विश आ क्षेति विश्यो विशंविशम् ॥
स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने॑वने शिश्रिये तक्व॒वीरि॑व । जनं॑जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे॑ति वि॒श्यो॒३॒॑ विशं॑विशम् ॥
sá darśatá-śrī́r átithir gṛhé-gṛhe váne-vane śiśriye takvavī́r-iva | jánaṃ-janaṃ janyó nā́ti manyate víśa ā́ kṣeti viśyò víśaṃ-viśam ||
He, of visible splendor, the Guest, has taken his seat in every home, in every forest, like a swift-winged one. Born for the peoples, he does not hold himself apart from any clan; the fire dwells among the settlements, belonging to all, entering community after community—Agni makes the many into a single field of offering.
सः । द॒र्श॒त॒ऽश्रीः । अति॑थिः । गृ॒हेऽगृ॑हे । वने॑ऽवने । शि॒श्र॒िये॒ । त॒क्व॒वीःऽइ॑व । जन॑म्ऽजनम् । जन्यः॑ । न । अति॑ । म॒न्य॒ते॒ । विशः॑ । आ । क्षे॒ति॒ । वि॒श्यः॑ । विश॑म्ऽविशम् ॥सः । दर्शतश्रीः । अतिथिः । गृहेगृहे । वनेवने । शिश्रिये । तक्ववीःइव । जनम्जनम् । जन्यः । न । अति । मन्यते । विशः । आ । क्षेति । विश्यः । विशम्विशम् ॥saḥ | darśata-śrīḥ | atithiḥ | gṛhe--gṛhe | vane--vane | śiśriye | takvavīḥ-iva | janam-janam | janyaḥ | na | ati | manyate | viśaḥ | ā | kṣeti | viśyaḥ | viśam-viśam