Sukta 10.91
सं जागृवद्भिर्जरमाण इध्यते दमे दमूना इषयन्निळस्पदे । विश्वस्य होता हविषो वरेण्यो विभुर्विभावा सुषखा सखीयते ॥
सं जा॑गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू॑ना इ॒षय॑न्नि॒ळस्प॒दे । विश्व॑स्य॒ होता॑ ह॒विषो॒ वरे॑ण्यो वि॒भुर्वि॒भावा॑ सु॒षखा॑ सखीय॒ते ॥
sáṃ jāgṛvád-bhir járamāṇa idhyate dáme damū́nā iṣáyann iḷás-páde | víśvasya hótā havíṣo váreṇyo vibhúr vibhā́vā su-sákhā sakhīyáte ||
Kindled in harmony with the wakeful ones, the ever-growing Fire flames in the home; he presses forward the impulsion in the seat of Ila. The chosen Hotar of all existence, vast and shining, the good friend becomes a friend—Agni awakens in us the right offering and the right companionship with the gods.
सम् । जा॒गृ॒वत्ऽभिः । जर॑माणः । इ॒द्य॒ते॒ । दमे॑ । दमू॑नाः । इ॒षय॑न् । इ॒ळः । प॒दे । विश्व॑स्य । होता॑ । ह॒विषः॑ । वरे॑ण्यः । वि॒ऽभुः । वि॒भाऽवा॑ । सु॒ऽसखा॑ । स॒खि॒ऽय॒ते ॥सम् । जागृवत्भिः । जरमाणः । इद्यते । दमे । दमूनाः । इषयन् । इळः । पदे । विश्वस्य । होता । हविषः । वरेण्यः । विभुः । विभावा । सुसखा । सखियते ॥sam | jāgṛvat-bhiḥ | jaramāṇaḥ | idyate | dame | damūnāḥ | iṣayan | iḷaḥ | pade | v iśvasya | hotā | haviṣaḥ | vareṇyaḥ | vi-bhuḥ | vibhāvā | su-sakhā | sakhi-yate