Sukta 10.91
यस्तुभ्यमग्ने अमृताय मर्त्यः समिधा दाशदुत वा हविष्कृति । तस्य होता भवसि यासि दूत्यमुप ब्रूषे यजस्यध्वरीयसि ॥
यस्तुभ्य॑मग्ने अ॒मृता॑य॒ मर्त्य॑: स॒मिधा॒ दाश॑दु॒त वा॑ ह॒विष्कृ॑ति । तस्य॒ होता॑ भवसि॒ यासि॑ दू॒त्य१॒॑मुप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ॥
yás tubhyam agne amṛ́tāya mártyaḥ sam-ídhā dā́śad utá vā havíṣ-kṛti | tásya hótā bhavasi yā́si dūtyám úpa brūṣe yájasy adhvarīyási ||
Whoever, O Agni, a mortal for the sake of the Immortal, offers you kindling or prepares the oblation—of him you become the Hotṛ; you go as messenger, you speak on his behalf; you sacrifice and carry out the work of the rite.
यः । तुभ्य॑म् । अ॒ग्ने॒ । अ॒मृता॑य । मर्त्यः॑ । स॒म्ऽइधा॑ । दाश॑त् । उ॒त । वा॒ । ह॒विःऽकृ॑ति । तस्य॑ । होता॑ । भ॒व॒सि॒ । यासि॑ । दू॒त्य॑म् । उप॑ । ब्रू॒षे॒ । यज॑सि । अ॒ध्व॒रि॒ऽयसि॑ ॥यः । तुभ्यम् । अग्ने । अमृताय । मर्त्यः । सम्इधा । दाशत् । उत । वा । हविःकृति । तस्य । होता । भवसि । यासि । दूत्यम् । उप । ब्रूषे । यजसि । अध्वरियसि ॥yaḥ | tubhyam | agne | amṛtāya | martyaḥ | sam-idhā | dāśat | uta | vā | haviḥ-kṛti | tasya | hotā | bhavasi | yāsi | dūtyam | upa | brūṣe | yajasi | adhvari-yasi