Sukta 10.91
इमा अस्मै मतयो वाचो अस्मदाँ ऋचो गिरः सुष्टुतयः समग्मत । वसूयवो वसवे जातवेदसे वृद्धासु चिद्वर्धनो यासु चाकनत् ॥
इ॒मा अ॑स्मै म॒तयो॒ वाचो॑ अ॒स्मदाँ ऋचो॒ गिर॑: सुष्टु॒तय॒: सम॑ग्मत । व॒सू॒यवो॒ वस॑वे जा॒तवे॑दसे वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ॥
imā́ asmai matáyo vā́co asmad ā́ṃ ṛ́co gíraḥ suṣṭutáyaḥ sám agmata | vasūyávo vásave jā́tavedase vṛ́ddhāsu cid várdhano yā́su cā́kanat ||
To him these thoughts and words from us have come together—our verses, our chants, our well-shaped praises. Seeking the true wealth, we bring them to the Vasu, to Jātavedas, who increases even the grown powers, in which he takes delight.
इ॒माः । अ॒स्मै॒ । म॒तयः॑ । वाचः॑ । अ॒स्मत् । आ । ऋचः॑ । गिरः॑ । सु॒ऽस्तु॒तयः॑ । सम् । अ॒ग्म॒त॒ । व॒सु॒ऽयवः॑ । वस॑वे । जा॒तऽवे॑दः । वृ॒द्धासु॑ । चि॒त् । वर्ध॑नः । यासु॑ । चा॒कन॑त् ॥इमाः । अस्मै । मतयः । वाचः । अस्मत् । आ । ऋचः । गिरः । सुस्तुतयः । सम् । अग्मत । वसुयवः । वसवे । जातवेदः । वृद्धासु । चित् । वर्धनः । यासु । चाकनत् ॥imāḥ | asmai | matayaḥ | vācaḥ | asmat | ā | ṛcaḥ | giraḥ | su-stutayaḥ | sam | agmata | vasu-yavaḥ | vasave | jāta-vedaḥ | vṛddhāsu | cit | vardhanaḥ | yāsu | cākanat