Sukta 10.90
तस्माद्विराळजायत विराजो अधि पूरुषः । स जातो अत्यरिच्यत पश्चाद्भूमिमथो पुरः ॥
तस्मा॑द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः । स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो॑ पु॒रः ॥
tasmā́d virā́ḷ ajāyata virā́jo ádhi pū́ruṣaḥ | sá jātó áty aricyata paścā́d bhū́mim átho púraḥ ||
From him was born Virāj, and from Virāj the Purusha came forth. When he was born, he exceeded—behind the earth and also in front: the manifested order arises from the Vast and yet the Conscious Being surpasses its own manifestation.
तस्मा॑त् । वि॒राट् । अ॒जा॒य॒त॒ । वि॒ऽराजः॑ । अधि॑ । पुरु॑षः । सः । जा॒तः । अति॑ । अ॒रि॒च्य॒त॒ । प॒श्चात् । भूमि॑म् । अथो॒ इति॑ । पु॒रः ॥तस्मात् । विराट् । अजायत । विराजः । अधि । पुरुषः । सः । जातः । अति । अरिच्यत । पश्चात् । भूमिम् । अथो इति । पुरः ॥tasmāt | virāṭ | ajāyata | vi-rājaḥ | adhi | puruṣaḥ | saḥ | jātaḥ | ati | aricyata | paścāt | bhūmim | atho iti | puraḥ