Sukta 10.89
त्वं ह त्यदृणया इन्द्र धीरोऽसिर्न पर्व वृजिना शृणासि । प्र ये मित्रस्य वरुणस्य धाम युजं न जना मिनन्ति मित्रम् ॥
त्वं ह॒ त्यदृ॑ण॒या इ॑न्द्र॒ धीरो॒ऽसिर्न पर्व॑ वृजि॒ना शृ॑णासि । प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ युजं॒ न जना॑ मि॒नन्ति॑ मि॒त्रम् ॥
tváṃ ha tyád ṛṇa-yā́ indra dhī́ro ’sír ná párva vṛjinā́ śṛṇāsi | prá ye mitrásya váruṇasya dhā́ma yújaṃ ná jánā minánti mitrám ||
Thou indeed, O Indra, art steadfast in the right leading; like a joint in the limb thou breakest the crookedness. Those who would violate the seat of Mitra and Varuṇa, like men who would sever a yoke-fellow, do violence to Mitra (the harmony).
त्वम् । ह॒ । त्यत् । ऋ॒ण॒ऽयाः । इ॒न्द्र॒ । धीरः॑ । अ॒सिः । न । पर्व॑ । वृ॒जि॒ना । शृ॒णा॒सि॒ । प्र । ये । मि॒त्रस्य॑ । वरु॑णस्य । धाम॑ । युज॑म् । न । जनाः॑ । मि॒नन्ति॑ । मि॒त्रम् ॥त्वम् । ह । त्यत् । ऋणयाः । इन्द्र । धीरः । असिः । न । पर्व । वृजिना । शृणासि । प्र । ये । मित्रस्य । वरुणस्य । धाम । युजम् । न । जनाः । मिनन्ति । मित्रम् ॥tvam | ha | tyat | ṛṇa-yāḥ | indra | dhīraḥ | asiḥ | na | parva | vṛjinā | śṛṇāsi | pra | ye | mitrasya | varuṇasya | dhāma | yujam | na | janāḥ | minanti | mitram