Sukta 10.89
न यस्य द्यावापृथिवी न धन्व नान्तरिक्षं नाद्रयः सोमो अक्षाः । यदस्य मन्युरधिनीयमानः शृणाति वीळु रुजति स्थिराणि ॥
न यस्य॒ द्यावा॑पृथि॒वी न धन्व॒ नान्तरि॑क्षं॒ नाद्र॑य॒: सोमो॑ अक्षाः । यद॑स्य म॒न्युर॑धिनी॒यमा॑नः शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ॥
ná yásya dyā́vāpṛthivī́ ná dhánva nā́ntárikṣaṁ nā́drayaḥ sómo ákṣāḥ | yád asya mányur adhinīyámānaḥ śr̥ṇā́ti vīḷú rújati sthirā́ṇi ||
Neither heaven-and-earth, nor the wide expanse, nor mid-world, nor the pressing stones, nor Soma, nor the dice can hold him back—when his ardour is being led on. Then it shatters even what is hard to break; it rends the things that seem fixed and stable.
न । यस्य॑ । द्यावा॑पृथि॒वी इति॑ । न । धन्व॑ । न । अ॒न्तरि॑क्षम् । न । अद्र॑यः । सोमः॑ । अ॒क्षा॒रिति॑ । यत् । अ॒स्य॒ । म॒न्युः । अ॒धि॒ऽनी॒यमा॑नः । शृ॒णाति॑ । वी॒ळु । रु॒जति॑ । स्थि॒राणि॑ ॥न । यस्य । द्यावापृथिवी इति । न । धन्व । न । अन्तरिक्षम् । न । अद्रयः । सोमः । अक्षारिति । यत् । अस्य । मन्युः । अधिनीयमानः । शृणाति । वीळु । रुजति । स्थिराणि ॥na | yasya | dyāvāpṛthivī iti | na | dhanva | na | antarikṣam | na | adrayaḥ | somaḥ | akṣāriti | yat | asya | manyuḥ | adhi-nīyamānaḥ | śṛṇāti | vīḷu | rujati | sthirāṇi