Sukta 10.89
आपान्तमन्युस्तृपलप्रभर्मा धुनिः शिमीवाञ्छरुमाँ ऋजीषी । सोमो विश्वान्यतसा वनानि नार्वागिन्द्रं प्रतिमानानि देभुः ॥
आपा॑न्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनि॒: शिमी॑वा॒ञ्छरु॑माँ ऋजी॒षी । सोमो॒ विश्वा॑न्यत॒सा वना॑नि॒ नार्वागिन्द्रं॑ प्रति॒माना॑नि देभुः ॥
āpā́ntamanyuḥ tr̥pálaprabharmā dhúniḥ śimīvā́ñ chárumāṁ r̥jīṣī́ | sómo víśvāny atasā́ vánāni nā́rvāg índraṁ pratímānāni debhuḥ ||
With anger that reaches the end, with triple armour of force—storming, impetuous, armed with the dart, he of the tawny dust. Soma has not fashioned any measures that can face Indra; all the forests of being are shaken by that driving might.
आपा॑न्तऽमन्युः । तृ॒पल॑ऽप्रभर्मा । धुनिः॑ । शिमी॑ऽवान् । शरु॑ऽमान् । ऋ॒जी॒षी । सोमः॑ । विश्वा॑नि । अ॒त॒सा । वना॑नि । न । अ॒र्वाक् । इन्द्र॑म् । प्र॒ति॒ऽमाना॑नि । दे॒भुः॒ ॥आपान्तमन्युः । तृपलप्रभर्मा । धुनिः । शिमीवान् । शरुमान् । ऋजीषी । सोमः । विश्वानि । अतसा । वनानि । न । अर्वाक् । इन्द्रम् । प्रतिमानानि । देभुः ॥āpānta-manyuḥ | tṛpala-prabharmā | dhuniḥ | śimī-vān | śaru-mān | ṛjīṣī | somaḥ | viśvāni | atasā | vanāni | na | arvāk | indram | prati-mānāni | debhuḥ