Sukta 10.89
इन्द्राय गिरो अनिशितसर्गा अपः प्रेरयं सगरस्य बुध्नात् । यो अक्षेणेव चक्रिया शचीभिर्विष्वक्तस्तम्भ पृथिवीमुत द्याम् ॥
इन्द्रा॑य॒ गिरो॒ अनि॑शितसर्गा अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् । यो अक्षे॑णेव च॒क्रिया॒ शची॑भि॒र्विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ॥
índrāya gíro ániśitasargā apáḥ prérayaṁ ságaraśya budhnā́t | yó ákṣeṇeva cakríyā śácībhiḥ víṣvaktástambha pr̥thivī́m utá dyā́m ||
For Indra, let the words be arrows well-released: I set the waters in motion from the ocean’s depth. He who, with his powers of effective will, like a wheel upon its axle, has set firm the earth and also the heaven in their wide poise.
इन्द्रा॑य । गिरः॑ । अनि॑शितऽसर्गाः । अ॒पः । प्र । ई॒र॒य॒म् । सग॑रस्य । बु॒ध्नात् । यः । अक्षे॑णऽइव । च॒क्रिया॑ । शची॑भिः । विष्व॑क् । त॒स्तम्भ॑ । पृ॒थि॒वीम् । उ॒त । द्याम् ॥इन्द्राय । गिरः । अनिशितसर्गाः । अपः । प्र । ईरयम् । सगरस्य । बुध्नात् । यः । अक्षेणइव । चक्रिया । शचीभिः । विष्वक् । तस्तम्भ । पृथिवीम् । उत । द्याम् ॥indrāya | giraḥ | aniśita-sargāḥ | apaḥ | pra | īrayam | sagarasya | budhnāt | yaḥ | akṣeṇa-iva | cakriyā | śacībhiḥ | viṣvak | tastambha | pṛthivīm | uta | dyām