Sukta 10.89
समानमस्मा अनपावृदर्च क्ष्मया दिवो असमं ब्रह्म नव्यम् । वि यः पृष्ठेव जनिमान्यर्य इन्द्रश्चिकाय न सखायमीषे ॥
स॒मा॒नम॑स्मा॒ अन॑पावृदर्च क्ष्म॒या दि॒वो अस॑मं॒ ब्रह्म॒ नव्य॑म् । वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इन्द्र॑श्चि॒काय॒ न सखा॑यमी॒षे ॥
samā́nám asmā́ anapāvṛd arca kṣmáyā divó ásamaṁ bráhma návyam | ví yáḥ pr̥ṣṭhéva jánimāny aryá índraś cikā́ya ná sákhāyam ī́ṣe ||
Offer to him the undiverted, equal hymn—new in its power, unmatched on earth and in heaven. He who has discerned the births as one reads a back laid open, Indra does not seek a companion to rival him.
स॒मा॒नम् । अ॒स्मै॒ । अन॑पऽवृत् । अ॒र्च॒ । क्ष्म॒या । दि॒वः । अस॑मम् । ब्रह्म॑ । नव्य॑म् । वि । यः । पृ॒ष्ठाऽइ॑व । जनि॑मानि । अ॒र्यः । इन्द्रः॑ । चि॒काय॑ । न । सखा॑यम् । ई॒षे ॥समानम् । अस्मै । अनपवृत् । अर्च । क्ष्मया । दिवः । असमम् । ब्रह्म । नव्यम् । वि । यः । पृष्ठाइव । जनिमानि । अर्यः । इन्द्रः । चिकाय । न । सखायम् । ईषे ॥samānam | asmai | anapa-vṛt | arca | kṣmayā | divaḥ | asamam | brahma | navyam | vi | yaḥ | pṛṣṭhāiva | janimāni | aryaḥ | indraḥ | cikāya | na | sakhāyam | īṣe