Sukta 10.89
स सूर्यः पर्युरू वरांस्येन्द्रो ववृत्याद्रथ्येव चक्रा । अतिष्ठन्तमपस्यं न सर्गं कृष्णा तमांसि त्विष्या जघान ॥
स सूर्य॒: पर्यु॒रू वरां॒स्येन्द्रो॑ ववृत्या॒द्रथ्ये॑व च॒क्रा । अति॑ष्ठन्तमप॒स्यं१॒॑ न सर्गं॑ कृ॒ष्णा तमां॑सि॒ त्विष्या॑ जघान ॥
sá sū́ryaḥ pár yurū́ várāṁsy índro vavṛtyād rathyèva cakrā́ | átiṣṭhantam apásyaṁ ná sárgaṁ kr̥ṣṇā́ támāṁsi tvíṣyā jaghāna ||
He is the Sun; Indra has set the wide spaces in motion like the wheels of a chariot-road. He beheld the blocked flow that stood fixed, and with his flaming energy he struck down the black darknesses.
सः । सूर्यः॑ । परि॑ । उ॒रु । वरां॑सि । आ । इन्द्रः॑ । व॒वृ॒त्या॒त् । रथ्या॑ऽइव । च॒क्रा । अति॑ष्ठन्तम् । अ॒प॒स्य॑म् । न । सर्ग॑म् । कृ॒ष्णा । तमां॑सि । त्विष्या॑ । ज॒घा॒न॒ ॥सः । सूर्यः । परि । उरु । वरांसि । आ । इन्द्रः । ववृत्यात् । रथ्याइव । चक्रा । अतिष्ठन्तम् । अपस्यम् । न । सर्गम् । कृष्णा । तमांसि । त्विष्या । जघान ॥saḥ | sūryaḥ | pari | uru | varāṃsi | ā | indraḥ | vavṛtyāt | rathyāiva | cakrā | atiṣṭhantam | apasyam | na | sargam | kṛṣṇā | tamāṃsi | tviṣyā | jaghāna