Sukta 10.89
इन्द्रं स्तवा नृतमं यस्य मह्ना विबबाधे रोचना वि ज्मो अन्तान् । आ यः पप्रौ चर्षणीधृद्वरोभिः प्र सिन्धुभ्यो रिरिचानो महित्वा ॥
इन्द्रं॑ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो॑च॒ना वि ज्मो अन्ता॑न् । आ यः प॒प्रौ च॑र्षणी॒धृद्वरो॑भि॒: प्र सिन्धु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ॥
índraṁ stavā nṛ́tamaṁ yásya mahnā́ víbabādhe rócanā ví jmá antā́n | ā́ yáḥ papráu carṣaṇīdhṛ́d várobhíḥ prá síndhubhyo riricānó mahitvā́ ||
Praise Indra, the most manly and master of the human journey; by his greatness he has opened out the luminous worlds and their farthest limits. He has filled all the ranges by his widenesses, and by his vastness he has poured himself forth beyond the rivers—beyond the habitual currents of our nature.
इन्द्र॑म् । स्त॒व॒ । नृऽत॑मम् । यस्य॑ । म॒ह्ना । वि॒ऽब॒बा॒धे । रो॒च॒ना । वि । ज्मः । अन्ता॑न् । आ । यः । प॒प्रौ । च॒र्षणि॒ऽधृत् । वरः॑ऽभिः । प्र । सिन्धु॑ऽभ्यः । रि॒रि॒चा॒नः । म॒हि॒ऽत्वा ॥इन्द्रम् । स्तव । नृतमम् । यस्य । मह्ना । विबबाधे । रोचना । वि । ज्मः । अन्तान् । आ । यः । पप्रौ । चर्षणिधृत् । वरःभिः । प्र । सिन्धुभ्यः । रिरिचानः । महित्वा ॥indram | stava | nṛ-tamam | yasya | mahnā | vi-babādhe | rocanā | vi | jmaḥ | antān | ā | yaḥ | paprau | carṣaṇi-dhṛt | varaḥ-bhiḥ | pra | sindhu-bhyaḥ | riricānaḥ | mahi-tvā