Sukta 10.89
एवा ते वयमिन्द्र भुञ्जतीनां विद्याम सुमतीनां नवानाम् । विद्याम वस्तोरवसा गृणन्तो विश्वामित्रा उत त इन्द्र नूनम् ॥
ए॒वा ते॑ व॒यमि॑न्द्र भुञ्जती॒नां वि॒द्याम॑ सुमती॒नां नवा॑नाम् । वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो॑ वि॒श्वामि॑त्रा उ॒त त॑ इन्द्र नू॒नम् ॥
evā́ te vayám indra bhuñjatīnā́m vidyā́ma sumatīnā́m návānām | vidyā́ma vásto rávasa gṛṇántaḥ viśvā́mitrā utá te indra nūnám ||
So may we, O Indra, come to know and partake of your ever-new right enjoyments—those felicities of a luminous mind. Praising you, may we know by the help of the Dawn’s protection; we, the Visvamitras, and that now, O Indra, by your grace.
ए॒व । ते॒ । व॒यम् । इ॒न्द्र॒ । भु॒ञ्ज॒ती॒नाम् । वि॒द्याम॑ । सु॒ऽम॒ती॒नाम् । नवा॑नाम् । वि॒द्याम॑ । वस्तोः॑ । अव॑सा । गृ॒णन्तः॑ । वि॒श्वामि॑त्राः । उ॒त । ते॒ । इ॒न्द्र॒ । नू॒नम् ॥एव । ते । वयम् । इन्द्र । भुञ्जतीनाम् । विद्याम । सुमतीनाम् । नवानाम् । विद्याम । वस्तोः । अवसा । गृणन्तः । विश्वामित्राः । उत । ते । इन्द्र । नूनम् ॥eva | te | vayam | indra | bhuñjatīnām | vidyāma | su-matīnām | navānām | vidyāma | vastoḥ | avasā | gṛṇantaḥ | viśvāmitrāḥ | uta | te | indra | nūnam