Sukta 10.89
पुरूणि हि त्वा सवना जनानां ब्रह्माणि मन्दन्गृणतामृषीणाम् । इमामाघोषन्नवसा सहूतिं तिरो विश्वाँ अर्चतो याह्यर्वाङ् ॥
पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना॑नां॒ ब्रह्मा॑णि॒ मन्द॑न्गृण॒तामृषी॑णाम् । इ॒मामा॒घोष॒न्नव॑सा॒ सहू॑तिं ति॒रो विश्वाँ॒ अर्च॑तो याह्य॒र्वाङ् ॥
purū́ṇi hí tvā́ sávanā jánānāṃ bráhmāṇi mándan gṛṇatā́m ṛ́ṣīṇām | imā́m āghóṣann ávasā sahū́tiṃ tiró víśvān árcato yāhy arvā́ṅ ||
For many are the pressings of men that gladden thee, and many the inspired utterances of the seers who sing. Hearing this call, come with thy help to this conjoint invocation; passing beyond all other chanters, come hither toward us.
पु॒रूणि॑ । हि । त्वा॒ । सव॑ना । जना॑नाम् । ब्रह्मा॑णि । मन्द॑न् । गृ॒ण॒ताम् । ऋषी॑णाम् । इ॒माम् । आ॒ऽघोष॑न् । अव॑सा । सऽहू॑तिम् । ति॒रः । विश्वा॑न् । अर्च॑तः । या॒हि॒ । अ॒र्वाङ् ॥पुरूणि । हि । त्वा । सवना । जनानाम् । ब्रह्माणि । मन्दन् । गृणताम् । ऋषीणाम् । इमाम् । आघोषन् । अवसा । सहूतिम् । तिरः । विश्वान् । अर्चतः । याहि । अर्वाङ् ॥purūṇi | hi | tvā | savanā | janānām | brahmāṇi | mandan | gṛṇatām | ṛṣīṇām | imām | āghoṣan | avasā | sa-hūtim | tiraḥ | viśvān | arcataḥ | yāhi | arvāṅ