Sukta 10.89
शत्रूयन्तो अभि ये नस्ततस्रे महि व्राधन्त ओगणास इन्द्र । अन्धेनामित्रास्तमसा सचन्तां सुज्योतिषो अक्तवस्ताँ अभि ष्युः ॥
श॒त्रू॒यन्तो॑ अ॒भि ये न॑स्तत॒स्रे महि॒ व्राध॑न्त ओग॒णास॑ इन्द्र । अ॒न्धेना॒मित्रा॒स्तम॑सा सचन्तां सुज्यो॒तिषो॑ अ॒क्तव॒स्ताँ अ॒भि ष्यु॑: ॥
śatrūyánto abhí ye nas tatasré mahí vrā́dhanta ogaṇā́sa indra | andhéna amítrās támasā sacantāṃ su-jyótiṣo aktávas tā́n abhí syuḥ ||
Those who, hostile, have spread themselves against us, greatly oppressing with their bands, O Indra—let those adversaries be joined to blind darkness. Let our luminous ones, the bright-shining powers, be against them and prevail.
श॒त्रु॒ऽयन्तः॑ । अ॒भि । ये । नः॒ । त॒त॒स्रे । महि॑ । व्राध॑न्तः । ओ॒ग॒णासः॑ । इ॒न्द्र॒ । अ॒न्धेन॑ । अ॒मित्राः॑ । तम॑सा । स॒च॒न्ता॒म् । सु॒ऽज्यो॒तिषः॑ । अ॒क्तवः॑ । तान् । अ॒भि । स्यु॒रिति॑ स्युः ॥शत्रुयन्तः । अभि । ये । नः । ततस्रे । महि । व्राधन्तः । ओगणासः । इन्द्र । अन्धेन । अमित्राः । तमसा । सचन्ताम् । सुज्योतिषः । अक्तवः । तान् । अभि । स्युरिति स्युः ॥śatru-yantaḥ | abhi | ye | naḥ | tatasre | mahi | vrādhantaḥ | ogaṇāsaḥ | indra | andhena | amitrāḥ | tamasā | sacantām | su-jyotiṣaḥ | aktavaḥ | tān | abhi | syuri tisyuḥ