Sukta 10.89
कर्हि स्वित्सा त इन्द्र चेत्यासदघस्य यद्भिनदो रक्ष एषत् । मित्रक्रुवो यच्छसने न गावः पृथिव्या आपृगमुया शयन्ते ॥
कर्हि॑ स्वि॒त्सा त॑ इन्द्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् । मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ न गाव॑: पृथि॒व्या आ॒पृग॑मु॒या शय॑न्ते ॥
kárhi svit sā́ ta indra cetyā́ ásad aghásya yád bhinadó rákṣa éṣat | mitra-krúvo yácchásane ná gā́vaḥ pṛthivyā́ ā́pṛg amuyā́ śáyante ||
When indeed will that thy perceiving power, O Indra, come into being—when thou breakest the evil and the rakṣas that rushes upon us? For the betrayers of harmony, like cattle at the slaughter, lie stretched out on the earth—struck down by that (force).
कर्हि॑ । स्वि॒त् । सा । ते॒ । इ॒न्द्र॒ । चे॒त्या । अ॒स॒त् । अ॒घस्य॑ । यत् । भि॒नदः॑ । रक्षः॑ । आ॒ऽईष॑त् । मि॒त्र॒ऽक्रुवः॑ । यत् । शस॑ने । न । गावः॑ । पृ॒थि॒व्याः । आ॒ऽपृक् । अ॒मु॒या । शय॑न्ते ॥कर्हि । स्वित् । सा । ते । इन्द्र । चेत्या । असत् । अघस्य । यत् । भिनदः । रक्षः । आईषत् । मित्रक्रुवः । यत् । शसने । न । गावः । पृथिव्याः । आपृक् । अमुया । शयन्ते ॥karhi | svit | sā | te | indra | cetyā | asat | aghasya | yat | bhinadaḥ | rakṣaḥ | āīṣat | mitra-kruvaḥ | yat | śasane | na | gāvaḥ | pṛthivyāḥ | āpṛk | amuyā | śayante