Sukta 10.89
प्र शोशुचत्या उषसो न केतुरसिन्वा ते वर्ततामिन्द्र हेतिः । अश्मेव विध्य दिव आ सृजानस्तपिष्ठेन हेषसा द्रोघमित्रान् ॥
प्र शोशु॑चत्या उ॒षसो॒ न के॒तुर॑सि॒न्वा ते॑ वर्ततामिन्द्र हे॒तिः । अश्मे॑व विध्य दि॒व आ सृ॑जा॒नस्तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ॥
prá śóśucatyā uṣáso ná ketúr asínvā te vartatām indra hetíḥ | áśmeva vidhya divá ā́ sṛjānás tápiṣṭhena héṣasā drógha-mitrān ||
Shine forth like the signal of the flaming Dawn; let thy unspent weapon, O Indra, move in its circle. Like a stone, strike them—thou who art casting thy force from heaven—burn with the most searing impetuosity the betrayers of friendship (the perverters of harmony).
प्र । शोशु॑चत्याः । उ॒षसः॑ । न । के॒तुः । अ॒सि॒न्वा । ते॒ । व॒र्त॒ता॒म् । इ॒न्द्र॒ । हे॒तिः । अश्मा॑ऽइव । वि॒ध्य॒ । दि॒वः । आ । सृ॒जा॒नः । तपि॑ष्ठेन । हेष॑सा । द्रोघ॑ऽमित्रान् ॥प्र । शोशुचत्याः । उषसः । न । केतुः । असिन्वा । ते । वर्तताम् । इन्द्र । हेतिः । अश्माइव । विध्य । दिवः । आ । सृजानः । तपिष्ठेन । हेषसा । द्रोघमित्रान् ॥pra | śośucatyāḥ | uṣasaḥ | na | ketuḥ | asinvā | te | vartatām | indra | hetiḥ | aśmāiva | vidhya | divaḥ | ā | sṛjānaḥ | tapiṣṭhena | heṣasā | drogha-mitrān