Sukta 10.89
प्राक्तुभ्य इन्द्रः प्र वृधो अहभ्यः प्रान्तरिक्षात्प्र समुद्रस्य धासेः । प्र वातस्य प्रथसः प्र ज्मो अन्तात्प्र सिन्धुभ्यो रिरिचे प्र क्षितिभ्यः ॥
प्राक्तुभ्य॒ इन्द्र॒: प्र वृ॒धो अह॑भ्य॒: प्रान्तरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः । प्र वात॑स्य॒ प्रथ॑स॒: प्र ज्मो अन्ता॒त्प्र सिन्धु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्य॑: ॥
prā́ktubhya índraḥ prá vṛdhó áhābhyaḥ prā́ntárikṣāt prá samudrásya dhāséḥ | prá vā́tasya práthasaḥ prá jmó antā́t prá síndhubhyo ririce prá kṣitíbhyāḥ ||
From the nights Indra pours forth, from the days of increase; from the mid-world, from the ocean’s seat of plenty; from the wide expanse of the Wind, from the farthest end of earth—he has poured out from the rivers, he has poured out from the worlds (habitations): the abundance of his giving.
प्र । अ॒क्तुऽभ्यः॑ । इन्द्रः॑ । प्र । वृ॒धः । अह॑ऽभ्यः । प्र । अ॒न्तरि॑क्षात् । प्र । स॒मु॒द्रस्य॑ । धा॒सेः । प्र । वात॑स्य । प्रथ॑सः । प्र । ज्मः । अन्ता॑त् । प्र । सिन्धु॑ऽभ्यः । रि॒रि॒चे॒ । प्र । क्षि॒तिऽभ्यः॑ ॥प्र । अक्तुभ्यः । इन्द्रः । प्र । वृधः । अहभ्यः । प्र । अन्तरिक्षात् । प्र । समुद्रस्य । धासेः । प्र । वातस्य । प्रथसः । प्र । ज्मः । अन्तात् । प्र । सिन्धुभ्यः । रिरिचे । प्र । क्षितिभ्यः ॥pra | aktu-bhyaḥ | indraḥ | pra | vṛdhaḥ | aha-bhyaḥ | pra | antarikṣāt | pra | samudrasya | dhāseḥ | pra | vātasya | prathasaḥ | pra | jmaḥ | antāt | pra | sindhu-bhyaḥ | ririce | pra | kṣiti-bhyaḥ