Sukta 10.89
इन्द्रो दिव इन्द्र ईशे पृथिव्या इन्द्रो अपामिन्द्र इत्पर्वतानाम् । इन्द्रो वृधामिन्द्र इन्मेधिराणामिन्द्रः क्षेमे योगे हव्य इन्द्रः ॥
इन्द्रो॑ दि॒व इन्द्र॑ ईशे पृथि॒व्या इन्द्रो॑ अ॒पामिन्द्र॒ इत्पर्व॑तानाम् । इन्द्रो॑ वृ॒धामिन्द्र॒ इन्मेधि॑राणा॒मिन्द्र॒: क्षेमे॒ योगे॒ हव्य॒ इन्द्र॑: ॥
índro divá índra īśe pṛthivyā́ índro apā́m índra ít párvatānām | índro vṛdhā́m índra ín médhirāṇām índraḥ kṣéme yóge havya índraḥ ||
Indra is lord of heaven; Indra rules the earth; Indra is master of the waters, Indra indeed of the mountains. Indra is of the growing powers; Indra indeed of the wise discernments. Indra is the one to be invoked in peace and in the joining of works—Indra.
इन्द्रः॑ । दि॒वः । इन्द्रः॑ । ई॒शे॒ । पृ॒थि॒व्याः । इन्द्रः॑ । अ॒पाम् । इन्द्रः॑ । इत् । पर्व॑तानाम् । इन्द्रः॑ । वृ॒धाम् । इन्द्रः॑ । इत् । मेधि॑राणाम् । इन्द्रः॑ । क्षेमे॑ । योगे॑ । हव्यः॑ । इन्द्रः॑ ॥इन्द्रः । दिवः । इन्द्रः । ईशे । पृथिव्याः । इन्द्रः । अपाम् । इन्द्रः । इत् । पर्वतानाम् । इन्द्रः । वृधाम् । इन्द्रः । इत् । मेधिराणाम् । इन्द्रः । क्षेमे । योगे । हव्यः । इन्द्रः ॥indraḥ | divaḥ | indraḥ | īśe | pṛthivyāḥ | indraḥ | apām | indraḥ | it | parvatānām | indraḥ | vṛdhām | indraḥ | it | medhirāṇām | indraḥ | kṣeme | yoge | havyaḥ | indraḥ