Sukta 10.88
यं देवासोऽजनयन्ताग्निं यस्मिन्नाजुहवुर्भुवनानि विश्वा । सो अर्चिषा पृथिवीं द्यामुतेमामृजूयमानो अतपन्महित्वा ॥
यं दे॒वासोऽज॑नयन्ता॒ग्निं यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा॑ । सो अ॒र्चिषा॑ पृथि॒वीं द्यामु॒तेमामृ॑जू॒यमा॑नो अतपन्महि॒त्वा ॥
yaṃ devāso 'janayantāgnim yasminn ājuhavur bhuvanāni viśvā | so 'rciṣā pṛthivīṃ dyām utemām ṛjūyamāno atapan mahitvā ||
That Agni whom the gods brought forth, into whom all the worlds poured their offering—he with his flame-energies heated Earth and Heaven and this (lower realm), moving straight on in his course, by the greatness of his power.
यम् । दे॒वासः॑ । अज॑नयन्त । अ॒ग्निम् । यस्मि॑न् । आ । अजु॑हवुः । भुव॑नानि । विश्वा॑ । सः । अ॒र्चिषा॑ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । ऋ॒जु॒ऽयमा॑नः । अ॒त॒प॒त् । म॒हि॒ऽत्वा ॥यम् । देवासः । अजनयन्त । अग्निम् । यस्मिन् । आ । अजुहवुः । भुवनानि । विश्वा । सः । अर्चिषा । पृथिवीम् । द्याम् । उत । इमाम् । ऋजुयमानः । अतपत् । महित्वा ॥yam | devāsaḥ | ajanayanta | agnim | yasmin | ā | ajuhavuḥ | bhuvanāni | viśvā | saḥ | arciṣā | pṛthivīm | dyām | uta | imām | ṛju-yamānaḥ | atapat | mahi-tvā