Sukta 10.88
स्तोमेन हि दिवि देवासो अग्निमजीजनञ्छक्तिभी रोदसिप्राम् । तमू अकृण्वन्त्रेधा भुवे कं स ओषधीः पचति विश्वरूपाः ॥
स्तोमे॑न॒ हि दि॒वि दे॒वासो॑ अ॒ग्निमजी॑जन॒ञ्छक्ति॑भी रोदसि॒प्राम् । तमू॑ अकृण्वन्त्रे॒धा भु॒वे कं स ओष॑धीः पचति वि॒श्वरू॑पाः ॥
stomena hi divi devāso agnim ajījanañ śaktibhī rodasiprām | tam ū akṛṇvan tredhā bhuve kaṃ sa oṣadhīḥ pacati viśvarūpāḥ ||
For by the hymn of affirmation in heaven the gods generated Agni, by their powers making him one who fills the two worlds. Him they formed threefold for the planes of becoming; he ripens the plants of many forms.
स्तोमे॑न । हि । दि॒वि । दे॒वासः॑ । अ॒ग्निम् । अजी॑जनन् । शक्ति॑ऽभिः । रो॒द॒सि॒ऽप्राम् । तम् । ऊँ॒ इति॑ । अ॒कृ॒ण्व॒न् । त्रे॒धा । भु॒वे । कम् । सः । ओष॑धीः । प॒च॒ति॒ । वि॒श्वऽरू॑पाः ॥स्तोमेन । हि । दिवि । देवासः । अग्निम् । अजीजनन् । शक्तिभिः । रोदसिप्राम् । तम् । ऊँ इति । अकृण्वन् । त्रेधा । भुवे । कम् । सः । ओषधीः । पचति । विश्वरूपाः ॥stomena | hi | divi | devāsaḥ | agnim | ajījanan | śakti-bhiḥ | rodasi-prām | tam | oṃ iti | akṛṇvan | tredhā | bhuve | kam | saḥ | oṣadhīḥ | pacati | viśva-rūpāḥ