Sukta 10.88
दृशेन्यो यो महिना समिद्धोऽरोचत दिवियोनिर्विभावा । तस्मिन्नग्नौ सूक्तवाकेन देवा हविर्विश्व आजुहवुस्तनूपाः ॥
दृ॒शेन्यो॒ यो म॑हि॒ना समि॒द्धोऽरो॑चत दि॒वियो॑निर्वि॒भावा॑ । तस्मि॑न्न॒ग्नौ सू॑क्तवा॒केन॑ दे॒वा ह॒विर्विश्व॒ आजु॑हवुस्तनू॒पाः ॥
dṛśenyo yo mahinā samiddho 'rocata diviyonir vibhāvā | tasminn agnau sūktavākena devā havir viśva ājuhavus tanūpāḥ ||
He who is fair to behold, kindled by his greatness, shone forth—having his womb in heaven, wide-radiant. Into that Agni the gods, guarding their own being, poured the whole offering by the power of the well-spoken word.
दृ॒शेन्यः॑ । यः । म॒हि॒ना । स॒म्ऽइ॒द्धः । अरो॑चत । दि॒विऽयो॑निः । वि॒भाऽवा॑ । तस्मि॑न् । अ॒ग्नौ । सू॒क्त॒ऽवा॒केन॑ । दे॒वाः । ह॒विः । विश्वे॑ । आ । अ॒जु॒ह॒वुः॒ । त॒नू॒ऽपाः ॥दृशेन्यः । यः । महिना । सम्इद्धः । अरोचत । दिवियोनिः । विभावा । तस्मिन् । अग्नौ । सूक्तवाकेन । देवाः । हविः । विश्वे । आ । अजुहवुः । तनूपाः ॥dṛśenyaḥ | yaḥ | mahinā | sam-iddhaḥ | arocata | divi-yoniḥ | vibhāvā | tasmi n | agnau | sūkta-vākena | devāḥ | haviḥ | viśve | ā | ajuhavuḥ | tanū-pāḥ