Sukta 10.88
मूर्धा भुवो भवति नक्तमग्निस्ततः सूर्यो जायते प्रातरुद्यन् । मायामू तु यज्ञियानामेतामपो यत्तूर्णिश्चरति प्रजानन् ॥
मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्तत॒: सूर्यो॑ जायते प्रा॒तरु॒द्यन् । मा॒यामू॒ तु य॒ज्ञिया॑नामे॒तामपो॒ यत्तूर्णि॒श्चर॑ति प्रजा॒नन् ॥
mūrdhā bhuvo bhavati naktam agnis tataḥ sūryo jāyate prātar udyan | māyām ū tu yajñiyānām etām apo yat tūrṇiś carati pra-jānan ||
Agni becomes the summit of our becoming in the night; from him the Sun is born, rising at dawn. This is indeed the wondrous working of the yajñiya powers: when the Waters swiftly move, knowing the births and bringing them to manifestation.
मू॒र्धा । भु॒वः । भ॒व॒ति॒ । नक्त॑म् । अ॒ग्निः । ततः॑ । सूर्यः॑ । जा॒य॒ते॒ । प्रा॒तः । उ॒त्ऽयन् । मा॒याम् । ऊँ॒ इति॑ । तु । य॒ज्ञिया॑नाम् । ए॒ताम् । अपः॑ । यत् । तूर्णिः॑ । चर॑ति । प्र॒ऽजा॒नन् ॥मूर्धा । भुवः । भवति । नक्तम् । अग्निः । ततः । सूर्यः । जायते । प्रातः । उत्यन् । मायाम् । ऊँ इति । तु । यज्ञियानाम् । एताम् । अपः । यत् । तूर्णिः । चरति । प्रजानन् ॥mūrdhā | bhuvaḥ | bhavati | naktam | agniḥ | tataḥ | sūryaḥ | jāyate | prātaḥ | ut-yan | māyām | oṃ iti | tu | yajñiyānām | etām | apaḥ | yat | tūrṇiḥ | carati | pra-jānan