Sukta 10.88
यज्जातवेदो भुवनस्य मूर्धन्नतिष्ठो अग्ने सह रोचनेन । तं त्वाहेम मतिभिर्गीर्भिरुक्थैः स यज्ञियो अभवो रोदसिप्राः ॥
यज्जा॑तवेदो॒ भुव॑नस्य मू॒र्धन्नति॑ष्ठो अग्ने स॒ह रो॑च॒नेन॑ । तं त्वा॑हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः स य॒ज्ञियो॑ अभवो रोदसि॒प्राः ॥
yaj jātavedo bhuvanasya mūrdhann atiṣṭho agne saha rocanena | taṃ tvāhem matibhir gīrbhir ukthaiḥ sa yajñiyo abhavo rodasiprāḥ ||
When, O Jātavedas, you stood upon the head of the worlds, O Agni, together with the luminous radiance, then we sought you with our thought-forces, with our inspired speech and with our hymns of affirmation; thus you became the power fit for sacrifice, filling and widening Heaven and Earth.
यत् । जा॒त॒ऽवे॒दः॒ । भुव॑नस्य । मू॒र्धन् । अति॑ष्ठः । अ॒ग्ने॒ । स॒ह । रो॒च॒नेन॑ । तम् । त्वा॒ । अ॒हे॒म॒ । म॒तिऽभिः॑ । गीः॒ऽभिः । उ॒क्थैः । सः । य॒ज्ञियः॑ । अ॒भ॒वः॒ । रो॒द॒सि॒ऽप्राः ॥यत् । जातवेदः । भुवनस्य । मूर्धन् । अतिष्ठः । अग्ने । सह । रोचनेन । तम् । त्वा । अहेम । मतिभिः । गीःभिः । उक्थैः । सः । यज्ञियः । अभवः । रोदसिप्राः ॥yat | jāta-vedaḥ | bhuvanasya | mūrdhan | atiṣṭhaḥ | agne | saha | rocanena | tam | tvā | ahema | mati-bhiḥ | gīḥ-bhiḥ | ukthaiḥ | saḥ | yajñiyaḥ | abhavaḥ | rodasi-prāḥ