Sukta 10.88
देवेभिर्न्विषितो यज्ञियेभिरग्निं स्तोषाण्यजरं बृहन्तम् । यो भानुना पृथिवीं द्यामुतेमामाततान रोदसी अन्तरिक्षम् ॥
दे॒वेभि॒र्न्वि॑षि॒तो य॒ज्ञिये॑भिर॒ग्निं स्तो॑षाण्य॒जरं॑ बृ॒हन्त॑म् । यो भा॒नुना॑ पृथि॒वीं द्यामु॒तेमामा॑त॒तान॒ रोद॑सी अ॒न्तरि॑क्षम् ॥
devebhir nv iṣito yajñiyebhir agniṃ stoṣāṇy ajaraṃ bṛhantam | yo bhānunā pṛthivīṃ dyām utemām ātatāna rodasī antarikṣam ||
Moved by the gods worthy of sacrifice, I would praise Agni, unaging and vast—he who by his radiance stretched out Earth and Heaven and this mid-world between the two worlds.
दे॒वेभिः॑ । नु । इ॒षि॒तः । य॒ज्ञिये॑भिः । अ॒ग्निम् । स्तो॒षा॒णि॒ । अ॒जर॑म् । बृ॒हन्त॑म् । यः । भा॒नुना॑ । पृ॒थि॒वीम् । द्याम् । उ॒त । इ॒माम् । आ॒त॒तान॑ । रोद॑सी॒ इति॑ । अ॒न्तरि॑क्षम् ॥देवेभिः । नु । इषितः । यज्ञियेभिः । अग्निम् । स्तोषाणि । अजरम् । बृहन्तम् । यः । भानुना । पृथिवीम् । द्याम् । उत । इमाम् । आततान । रोदसी इति । अन्तरिक्षम् ॥devebhiḥ | nu | iṣitaḥ | yajñiyebhiḥ | agnim | stoṣāṇi | ajaram | bṛhantam | yaḥ | bhānunā | pṛthivīm | dyām | uta | imām | ātatāna | rodasī iti | antarikṣam