Sukta 10.88
गीर्णं भुवनं तमसापगूळ्हमाविः स्वरभवज्जाते अग्नौ । तस्य देवाः पृथिवी द्यौरुतापोऽरणयन्नोषधीः सख्ये अस्य ॥
गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ । तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये अ॑स्य ॥
gīrṇaṃ bhuvanaṃ tamasā apagūḷham āviḥ svaḥ abhavaj jāte agnau | tasya devāḥ pṛthivī dyauḥ utāpo ’raṇayann oṣadhīḥ sakhye asya ||
The world, swallowed and hidden by darkness, became manifest—the luminous realm appeared—when Agni was born. For his companionship the gods—Earth and Heaven and the Waters—brought forth the plants.
गी॒र्णम् । भुव॑नम् । तम॑सा । अप॑ऽगूळ्हम् । आ॒विः । स्वः॑ । अ॒भ॒व॒त् । जा॒ते । अ॒ग्नौ । तस्य॑ । दे॒वाः । पृ॒थि॒वी । द्यौः । उ॒त । आपः॑ । अर॑णयन् । ओष॑धीः । स॒ख्ये । अ॒स्य॒ ॥गीर्णम् । भुवनम् । तमसा । अपगूळ्हम् । आविः । स्वः । अभवत् । जाते । अग्नौ । तस्य । देवाः । पृथिवी । द्यौः । उत । आपः । अरणयन् । ओषधीः । सख्ये । अस्य ॥gīrṇam | bhuvanam | tamasā | apa-gūḷham | āviḥ | svaḥ | abhavat | jāte | agnau | tasya | devāḥ | pṛthivī | dyauḥ | uta | āpaḥ | araṇayan | oṣadhīḥ | sakhye | asya