Sukta 10.88
कत्यग्नयः कति सूर्यासः कत्युषासः कत्यु स्विदापः । नोपस्पिजं वः पितरो वदामि पृच्छामि वः कवयो विद्मने कम् ॥
कत्य॒ग्नय॒: कति॒ सूर्या॑स॒: कत्यु॒षास॒: कत्यु॑ स्वि॒दाप॑: । नोप॒स्पिजं॑ वः पितरो वदामि पृ॒च्छामि॑ वः कवयो वि॒द्मने॒ कम् ॥
kátī agnáyaḥ káti sū́ryāsaḥ kát y uṣā́saḥ káty u svíd ā́paḥ | nópa-spíjaṁ vaḥ pítaro vadāmi pr̥cchā́mi vaḥ kavayo vidmáne kám ||
How many are the fires, how many the suns, how many the dawns, and how many indeed the waters? I do not speak to you, Fathers, with a shallow nibbling at knowledge; I ask you, O seers, so that we may know the One behind the many.
कति॑ । अ॒ग्नयः॑ । कति॑ । सूर्या॑सः । कति॑ । उ॒षसः॑ । कति॑ । ऊँ॒ इति॑ । स्वि॒त् । आपः॑ । न । उ॒प॒ऽस्पिज॑म् । वः॒ । पि॒त॒रः॒ । व॒दा॒मि॒ । पृ॒च्छामि॑ । वः॒ । क॒व॒यः॒ । वि॒द्मने॑ । कम् ॥कति । अग्नयः । कति । सूर्यासः । कति । उषसः । कति । ऊँ इति । स्वित् । आपः । न । उपस्पिजम् । वः । पितरः । वदामि । पृच्छामि । वः । कवयः । विद्मने । कम् ॥kati | agnayaḥ | kati | sūryāsaḥ | kati | uṣasaḥ | kati | oṃ iti | svit | āpaḥ | na | upa-spijam | vaḥ | pitaraḥ | vadāmi | pṛcchāmi | vaḥ | kavayaḥ | vidmane | kam