Sukta 10.88
यावन्मात्रमुषसो न प्रतीकं सुपर्ण्यो वसते मातरिश्वः । तावद्दधात्युप यज्ञमायन्ब्राह्मणो होतुरवरो निषीदन् ॥
या॒व॒न्मा॒त्रमु॒षसो॒ न प्रती॑कं सुप॒र्ण्यो॒३॒॑ वस॑ते मातरिश्वः । ताव॑द्दधा॒त्युप॑ य॒ज्ञमा॒यन्ब्रा॑ह्म॒णो होतु॒रव॑रो नि॒षीद॑न् ॥
yā́van-mā́tram uṣáso ná pratī́kaṁ suparṇyò vasate mātáriśvāḥ | tā́vad dadhā́ty úpa yajñám ā́yan brā́hmaṇo hotúr ávaro ní-sīdan ||
As far as the measure of Dawn’s appearing reaches, so far the fair-winged Mātariśvan dwells and moves. So much he establishes when he comes near to the sacrifice; then the Brahman, the lower (servant) of the Hotar, sits down in the rite—ready for the ordered work.
या॒व॒त्ऽमा॒त्रम् । उ॒षसः॑ । न । प्रती॑कम् । सु॒ऽप॒र्ण्यः॑ । वस॑ते । मा॒त॒रि॒श्वः॒ । ताव॑त् । द॒धा॒ति॒ । उप॑ । य॒ज्ञम् । आ॒ऽयन् । ब्रा॒ह्म॒णः । होतुः॑ । अव॑रः । नि॒ऽसीद॑न् ॥यावत्मात्रम् । उषसः । न । प्रतीकम् । सुपर्ण्यः । वसते । मातरिश्वः । तावत् । दधाति । उप । यज्ञम् । आयन् । ब्राह्मणः । होतुः । अवरः । निसीदन् ॥yāvat-mātram | uṣasaḥ | na | pratīkam | su-parṇyaḥ | vasate | mātariśvaḥ | tāvat | dadhāti | upa | yajñam | āyan | brāhmaṇaḥ | hotuḥ | avaraḥ | ni-sīdan