Sukta 10.88
यत्रा वदेते अवरः परश्च यज्ञन्योः कतरो नौ वि वेद । आ शेकुरित्सधमादं सखायो नक्षन्त यज्ञं क इदं वि वोचत् ॥
यत्रा॒ वदे॑ते॒ अव॑र॒: पर॑श्च यज्ञ॒न्यो॑: कत॒रो नौ॒ वि वे॑द । आ शे॑कु॒रित्स॑ध॒मादं॒ सखा॑यो॒ नक्ष॑न्त य॒ज्ञं क इ॒दं वि वो॑चत् ॥
yátrā vádete ávaraḥ páraś ca yajñanyóḥ kátaro nau ví veda | ā śékúr ít sadhámādaṁ sákhāyo nákṣanta yajñáṁ ká idáṁ ví vocat ||
Where the lower and the higher speak together, which of the two sacrificial powers truly knows for us? Yet the comrades are able to enter the common delight; they reach the sacrifice—who will declare this clearly?
यत्र॑ । वदे॑ते॒ इति॑ । अव॑रः । परः॑ । च॒ । य॒ज्ञ॒ऽन्योः॑ । क॒त॒रः । नौ॒ । वि । वे॒द॒ । आ । शे॒कुः॒ । इत् । स॒ध॒ऽमाद॑म् । सखा॑यः । नक्ष॑न्त । य॒ज्ञम् । कः । इ॒दम् । वि । वो॒च॒त् ॥यत्र । वदेते इति । अवरः । परः । च । यज्ञन्योः । कतरः । नौ । वि । वेद । आ । शेकुः । इत् । सधमादम् । सखायः । नक्षन्त । यज्ञम् । कः । इदम् । वि । वोचत् ॥yatra | vadeteiti | avaraḥ | paraḥ | ca | yajña-nyoḥ | kataraḥ | nau | vi | veda | ā | śekuḥ | it | sadha-mādam | sakhāyaḥ | nakṣanta | yajñam | kaḥ | idam | vi | vocat