Sukta 10.88
विश्वस्मा अग्निं भुवनाय देवा वैश्वानरं केतुमह्नामकृण्वन् । आ यस्ततानोषसो विभातीरपो ऊर्णोति तमो अर्चिषा यन् ॥
विश्व॑स्मा अ॒ग्निं भुव॑नाय दे॒वा वै॑श्वान॒रं के॒तुमह्ना॑मकृण्वन् । आ यस्त॒तानो॒षसो॑ विभा॒तीरपो॑ ऊर्णोति॒ तमो॑ अ॒र्चिषा॒ यन् ॥
viśvasmā agniṃ bhuvanāya devā vaiśvānaraṃ ketum ahnām akṛṇvan | ā yas tatānoṣaso vibhātīr apo ūrṇoti tamo arciṣā yan ||
For the whole world the gods made Agni, Vaiśvānara, a banner of the days. He it is who has stretched out the shining Dawns; he wraps away the darkness with his flame as he moves.
विश्व॑स्मै । अ॒ग्निम् । भुव॑नाय । दे॒वाः । वै॒श्वा॒न॒रम् । के॒तुम् । अह्ना॑म् । अ॒कृ॒ण्व॒न् । आ । यः । त॒तान॑ । उ॒षसः॑ । वि॒ऽभा॒तीः । अपो॒ इति॑ । ऊ॒र्णो॒ति॒ । तमः॑ । अ॒र्चिषा॑ । यन् ॥विश्वस्मै । अग्निम् । भुवनाय । देवाः । वैश्वानरम् । केतुम् । अह्नाम् । अकृण्वन् । आ । यः । ततान । उषसः । विभातीः । अपो इति । ऊर्णोति । तमः । अर्चिषा । यन् ॥viśvasmai | agnim | bhuvanāya | devāḥ | vaiśvānaram | ketum | ahnām | akṛṇvan | ā | yaḥ | tatāna | uṣasaḥ | vi-bhātīḥ | apo iti | ūrṇoti | tamaḥ | arciṣā | yan