Sukta 10.88
यदेदेनमदधुर्यज्ञियासो दिवि देवाः सूर्यमादितेयम् । यदा चरिष्णू मिथुनावभूतामादित्प्रापश्यन्भुवनानि विश्वा ॥
य॒देदे॑न॒मद॑धुर्य॒ज्ञिया॑सो दि॒वि दे॒वाः सूर्य॑मादिते॒यम् । य॒दा च॑रि॒ष्णू मि॑थु॒नावभू॑ता॒मादित्प्राप॑श्य॒न्भुव॑नानि॒ विश्वा॑ ॥
yad edenam adadhur yajñiyāso divi devāḥ sūryam āditeyam | yadā cariṣṇū mithunāv abhūtām ād it prāpaśyan bhuvanāni viśvā ||
When the yajñiya gods set him in heaven as the Sun, the son of Aditi, then, when the two moving ones became a pair, from that moment they beheld forth all the worlds.
य॒दा । इत् । ए॒न॒म् । अद॑धुः । य॒ज्ञिया॑सः । दि॒वि । दे॒वाः । सूर्य॑म् । आ॒दि॒ते॒यम् । य॒दा । च॒रि॒ष्णू इति॑ । मि॒थु॒नौ । अभू॑ताम् । आत् । इत् । प्र । अ॒प॒श्य॒न् । भुव॑नानि । विश्वा॑ ॥यदा । इत् । एनम् । अदधुः । यज्ञियासः । दिवि । देवाः । सूर्यम् । आदितेयम् । यदा । चरिष्णू इति । मिथुनौ । अभूताम् । आत् । इत् । प्र । अपश्यन् । भुवनानि । विश्वा ॥yadā | it | enam | adadhuḥ | yajñiyāsaḥ | divi | devāḥ | sūryam | āditeyam | yadā | cariṣṇū iti | mithunau | abhūtām | āt | it | pra | apaśyan | bhuvanāni | viśvā