Sukta 10.87
तीक्ष्णेनाग्ने चक्षुषा रक्ष यज्ञं प्राञ्चं वसुभ्यः प्र णय प्रचेतः । हिंस्रं रक्षांस्यभि शोशुचानं मा त्वा दभन्यातुधाना नृचक्षः ॥
ती॒क्ष्णेना॑ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्य॒: प्र ण॑य प्रचेतः । हिं॒स्रं रक्षां॑स्य॒भि शोशु॑चानं॒ मा त्वा॑ दभन्यातु॒धाना॑ नृचक्षः ॥
tīkṣṇénāgne cákṣuṣā rakṣa yajñáṃ prā́ñcaṃ vásubhyaḥ prá naya prácetaḥ | hiṃsráṃ rakṣā́ṃsy abhí śóśucānaṃ mā́ tvā dabhan yātu-dhā́nā nṛ-cákṣaḥ ||
With your keen eye, O Agni, protect the offering; lead it forward to the Vasus, O clear-knowing one. Blaze against the violent powers of distortion; let not the yātudhānas deceive you, O seer for men.
ती॒क्ष्णेन॑ । अ॒ग्ने॒ । चक्षु॑षा । र॒क्ष॒ । य॒ज्ञम् । प्राञ्च॑म् । वसु॑ऽभ्यः । प्र । न॒य॒ । प्र॒ऽचे॒तः॒ । हिं॒स्रम् । रक्षां॑सि । अ॒भि । शोशु॑चानम् । मा । त्वा॒ । द॒भ॒न् । या॒तु॒ऽधानाः॑ । नृ॒ऽच॒क्षः॒ ॥तीक्ष्णेन । अग्ने । चक्षुषा । रक्ष । यज्ञम् । प्राञ्चम् । वसुभ्यः । प्र । नय । प्रचेतः । हिंस्रम् । रक्षांसि । अभि । शोशुचानम् । मा । त्वा । दभन् । यातुधानाः । नृचक्षः ॥tīkṣṇena | agne | cakṣuṣā | rakṣa | yajñam | prāñcam | vasu-bhyaḥ | pra | naya | pra-cetaḥ | hiṃsram | rakṣāṃsi | abhi | śośucānam | mā | tvā | dabhan | yātu-dhānāḥ | nṛ-cakṣaḥ