Sukta 10.87
नृचक्षा रक्षः परि पश्य विक्षु तस्य त्रीणि प्रति शृणीह्यग्रा । तस्याग्ने पृष्टीर्हरसा शृणीहि त्रेधा मूलं यातुधानस्य वृश्च ॥
नृ॒चक्षा॒ रक्ष॒: परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा॑ । तस्या॑ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं॑ यातु॒धान॑स्य वृश्च ॥
nṛcákṣā rakṣáḥ pári paśya víkṣu tásya trī́ṇi práti śṛṇīhy ágrā | tásyāgne pṛṣṭī́r hárasā śṛṇīhi trédhā mū́laṃ yātudhā́nasyá vṛśca ||
O Agni, who seest with the soul’s eye, look all around among the habitations for the Rakṣas-force. Strike down its three foremost fronts; with thy vehement energy cut its back-supports, and sever in three ways the very root of the yātudhāna (the devourer of the inner light).
नृ॒ऽचक्षाः॑ । रक्षः॑ । परि॑ । प॒श्य॒ । वि॒क्षु । तस्य॑ । त्रीणि॑ । प्रति॑ । शृ॒णी॒हि॒ । अग्रा॑ । तस्य॑ । अ॒ग्ने॒ । पृ॒ष्टीः । हर॑सा । शृ॒णी॒हि॒ । त्रे॒धा । मूल॑म् । या॒तु॒ऽधान॑स्य । वृ॒श्च॒ ॥नृचक्षाः । रक्षः । परि । पश्य । विक्षु । तस्य । त्रीणि । प्रति । शृणीहि । अग्रा । तस्य । अग्ने । पृष्टीः । हरसा । शृणीहि । त्रेधा । मूलम् । यातुधानस्य । वृश्च ॥nṛ-cakṣāḥ | rakṣaḥ | pari | paśya | vikṣu | tasya | trīṇi | prati | śṛṇīhi | agrā | tasya | agne | pṛṣṭīḥ | harasā | śṛṇīhi | tredhā | mūlam | yātu-dhānasya | vṛśca