Sukta 10.87
इह प्र ब्रूहि यतमः सो अग्ने यो यातुधानो य इदं कृणोति । तमा रभस्व समिधा यविष्ठ नृचक्षसश्चक्षुषे रन्धयैनम् ॥
इ॒ह प्र ब्रू॑हि यत॒मः सो अ॑ग्ने॒ यो या॑तु॒धानो॒ य इ॒दं कृ॒णोति॑ । तमा र॑भस्व स॒मिधा॑ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम् ॥
ihá prá brūhi yatamáḥ só agne yó yātu-dhā́no yá idáṃ kṛṇóti | tám ā́ rabhasva sam-idhā́ yáviṣṭha nṛ-cákṣasaś cákṣuṣe randhayainam ||
Here, declare which one he is, O Agni—what yātudhāna is doing this. Seize him with your kindling, O youngest; subject him to the seeing of the seers of men—make him yield to the eye of true discernment.
इ॒ह । प्र । ब्रू॒हि॒ । य॒त॒मः । सः । अ॒ग्ने॒ । यः । या॒तु॒ऽधानः॑ । यः । इ॒दम् । कृ॒णोति॑ । तम् । आ । र॒भ॒स्व॒ । स॒म्ऽइधा॑ । य॒वि॒ष्ठ॒ । नृ॒ऽचक्ष॑सः । चक्षु॑षे । र॒न्ध॒य॒ । ए॒न॒म् ॥इह । प्र । ब्रूहि । यतमः । सः । अग्ने । यः । यातुधानः । यः । इदम् । कृणोति । तम् । आ । रभस्व । सम्इधा । यविष्ठ । नृचक्षसः । चक्षुषे । रन्धय । एनम् ॥iha | pra | brūhi | yatamaḥ | saḥ | agne | yaḥ | yātu-dhānaḥ | yaḥ | idam | kṛṇoti | tam | ā | rabhasva | sam-idhā | yaviṣṭha | nṛ-cakṣasaḥ | cakṣuṣe | randhaya | enam