Sukta 10.87
उतालब्धं स्पृणुहि जातवेद आलेभानादृष्टिभिर्यातुधानात् । अग्ने पूर्वो नि जहि शोशुचान आमादः क्ष्विङ्कास्तमदन्त्वेनीः ॥
उ॒ताल॑ब्धं स्पृणुहि जातवेद आलेभा॒नादृ॒ष्टिभि॑र्यातु॒धाना॑त् । अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒माद॒: क्ष्विङ्का॒स्तम॑द॒न्त्वेनी॑: ॥
utā́labdhaṃ spṛṇuhi jāta-veda ālebhānā́d ṛṣṭíbhir yātu-dhānā́t | agne pū́rvo ní jahi śóśucāna āmā́daḥ kṣvíṅkās tám adantv énīḥ ||
And the one who has been seized—rescue him, O Jātavedas, from the yātudhāna who strikes with spears. O Agni, blazing first, strike him down; let the devourers of rawness, the biting powers, consume that one—the swift-darting energies.
उ॒त । आऽल॑ब्धम् । स्पृ॒णु॒हि॒ । जा॒त॒ऽवे॒दः॒ । आ॒ऽले॒भा॒नात् । ऋ॒ष्टिऽभिः॑ । या॒तु॒ऽधाना॑त् । अग्ने॑ । पूर्वः॑ । नि । ज॒हि॒ । शोशु॑चानः । आ॒म॒ऽअदः॑ । क्ष्विङ्काः॑ । तम् । अ॒द॒न्तु॒ । एनीः॑ ॥उत । आलब्धम् । स्पृणुहि । जातवेदः । आलेभानात् । ऋष्टिभिः । यातुधानात् । अग्ने । पूर्वः । नि । जहि । शोशुचानः । आमअदः । क्ष्विङ्काः । तम् । अदन्तु । एनीः ॥uta | ālabdham | spṛṇuhi | jāta-vedaḥ | ālebhānāt | ṛṣṭi-bhiḥ | yātu-dhānāt | agne | pūrvaḥ | ni | jahi | śośucānaḥ | āma-adaḥ | kṣviṅkāḥ | tam | adantu | enīḥ