Sukta 10.87
यत्रेदानीं पश्यसि जातवेदस्तिष्ठन्तमग्न उत वा चरन्तम् । यद्वान्तरिक्षे पथिभिः पतन्तं तमस्ता विध्य शर्वा शिशानः ॥
यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ॑न्तमग्न उ॒त वा॒ चर॑न्तम् । यद्वा॒न्तरि॑क्षे प॒थिभि॒: पत॑न्तं॒ तमस्ता॑ विध्य॒ शर्वा॒ शिशा॑नः ॥
yátre-dā́nīṃ páśyasi jāta-vedaḥ tíṣṭhantam agna utá vā cárantam | yád vā́ntárikṣe pathíbhiḥ pátantaṃ tám ástā vidhya śárvā śiśānaḥ ||
Wherever now you see him, O Jātavedas—standing or moving, or flying in the mid-region along the paths—strike him there with your missile, O blazing Archer, in your sharpened force.
यत्र॑ । इ॒दानी॑म् । पश्य॑सि । जा॒त॒ऽवे॒दः॒ । तिष्ठ॑न्तम् । अ॒ग्ने॒ । उ॒त । वा॒ । चर॑न्तम् । यत् । वा॒ । अ॒न्तरि॑क्षे । प॒थिऽभिः । पत॑न्तम् । तम् । अस्ता॑ । वि॒ध्य॒ । शर्वा॑ । शिशा॑नः ॥यत्र । इदानीम् । पश्यसि । जातवेदः । तिष्ठन्तम् । अग्ने । उत । वा । चरन्तम् । यत् । वा । अन्तरिक्षे । पथिभिः । पतन्तम् । तम् । अस्ता । विध्य । शर्वा । शिशानः ॥yatra | idānīm | paśyasi | jāta-vedaḥ | tiṣṭhantam | agne | uta | vā | carantam | yat | vā | antarikṣe | pathi-bhiḥ | patantam | tam | astā | vidhya | śarvā | śiśānaḥ