Sukta 10.87
अग्ने त्वचं यातुधानस्य भिन्धि हिंस्राशनिर्हरसा हन्त्वेनम् । प्र पर्वाणि जातवेदः शृणीहि क्रव्यात्क्रविष्णुर्वि चिनोतु वृक्णम् ॥
अग्ने॒ त्वचं॑ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम् । प्र पर्वा॑णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णम् ॥
agne tvácaṃ yātu-dhā́nasyā bhindhi hiṃsrā́śanir hárasā hantv enam | prá párvāṇi jāta-vedaḥ śṛṇīhi krav-yā́t kraviṣṇúr ví cinotu vṛ́kṇam ||
O Agni, split the skin of the yātudhāna; let the fierce thunderbolt smite him with its glare. Break his joints apart, O Jātavedas; let the raw-eater, the devourer, pick apart what is cut down.
अग्ने॑ । त्वच॑म् । या॒तु॒ऽधान॑स्य । भि॒न्धि॒ । हिं॒स्रा । अ॒शनिः॑ । हर॑सा । ह॒न्तु॒ । ए॒न॒म् । प्र । पर्वा॑णि । जा॒त॒ऽवे॒दः॒ । शृ॒णी॒हि॒ । क्र॒व्यात् । क्र॒वि॒ष्णुः । वि । चि॒नो॒तु॒ । वृ॒क्णम् ॥अग्ने । त्वचम् । यातुधानस्य । भिन्धि । हिंस्रा । अशनिः । हरसा । हन्तु । एनम् । प्र । पर्वाणि । जातवेदः । शृणीहि । क्रव्यात् । क्रविष्णुः । वि । चिनोतु । वृक्णम् ॥agne | tvacam | yātu-dhānasya | bhindhi | hiṃsrā | aśaniḥ | harasā | hantu | enam | pra | parvāṇi | jāta-vedaḥ | śṛṇīhi | kravyāt | kraviṣṇuḥ | vi | cinotu | vṛkṇam