Sukta 10.87
यज्ञैरिषूः संनममानो अग्ने वाचा शल्याँ अशनिभिर्दिहानः । ताभिर्विध्य हृदये यातुधानान्प्रतीचो बाहून्प्रति भङ्ध्येषाम् ॥
य॒ज्ञैरिषू॑: सं॒नम॑मानो अग्ने वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः । ताभि॑र्विध्य॒ हृद॑ये यातु॒धाना॑न्प्रती॒चो बा॒हून्प्रति॑ भङ्ध्येषाम् ॥
yajñáir iṣū́ḥ sán-namamāno agne vācā́ śalyā́m aśánibhir dihānáḥ | tā́bhir vidhya hṛ́daye yātu-dhānān pratī́co bāhū́n práti bhaṅdhy eṣām ||
O Agni, bending your arrows through the sacrificial acts, sharpening the darts by speech and forging them like thunderbolts—pierce the yātudhānas in the heart; break back their arms that strike against the right movement.
य॒ज्ञैः । इषूः॑ । स॒म्ऽनम॑मानः । अ॒ग्ने॒ । वा॒चा । श॒ल्यान् । अ॒शनि॑ऽभिः । दि॒हा॒नः । ताभिः॑ । वि॒ध्य॒ । हृद॑ये । या॒तु॒ऽधाना॑न् । प्र॒ती॒चः । बा॒हून् । प्रति॑ । भ॒ङ्धि॒ । ए॒षा॒म् ॥यज्ञैः । इषूः । सम्नममानः । अग्ने । वाचा । शल्यान् । अशनिभिः । दिहानः । ताभिः । विध्य । हृदये । यातुधानान् । प्रतीचः । बाहून् । प्रति । भङ्धि । एषाम् ॥yajñaiḥ | iṣūḥ | sam-namamānaḥ | agne | vācā | śalyān | aśani-bhiḥ | dihānaḥ | tābhiḥ | vidhya | hṛdaye | yātu-dhānān | pratīcaḥ | bāhūn | prati | bhaṅdhi | eṣām