Sukta 10.87
उभोभयाविन्नुप धेहि दंष्ट्रा हिंस्रः शिशानोऽवरं परं च । उतान्तरिक्षे परि याहि राजञ्जम्भैः सं धेह्यभि यातुधानान् ॥
उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा॑ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं॑ च । उ॒तान्तरि॑क्षे॒ परि॑ याहि राज॒ञ्जम्भै॒: सं धे॑ह्य॒भि या॑तु॒धाना॑न् ॥
ubhóbhayāvin núpa dhehi daṃṣṭrā́ hiṃsráḥ śiśāno’váraṃ páraṃ ca | utā́ntárikṣe pári yāhi rā́jan jámbhaiḥ sáṃ dhehy abhí yātu-dhānān ||
O twofold-protecting King, set on your fangs, fierce and blazing, below and above; and move around in the mid-world. With your jaws press in upon the yātudhānas and crush them.
उ॒भा । उ॒भ॒या॒वि॒न् । उप॑ । धे॒हि॒ । दंष्ट्रा॑ । हिं॒स्रः । शिशा॑नः । अव॑रम् । पर॑म् । च॒ । उ॒त । अ॒न्तरि॑क्षे । परि॑ । या॒हि॒ रा॒ज॒न् । जम्भैः॑ । सम् । धे॒हि॒ । अ॒भि । या॒तु॒ऽधाना॑न् ॥उभा । उभयाविन् । उप । धेहि । दंष्ट्रा । हिंस्रः । शिशानः । अवरम् । परम् । च । उत । अन्तरिक्षे । परि । याहि राजन् । जम्भैः । सम् । धेहि । अभि । यातुधानान् ॥ubhā | ubhayāvin | upa | dhehi | daṃṣṭrā | hiṃsraḥ | śiśānaḥ | avaram | param | ca | uta | antarikṣe | pari | yāhi rājan | jambhaiḥ | sam | dhehi | abhi | yātu-dhānān