Sukta 10.87
अयोदंष्ट्रो अर्चिषा यातुधानानुप स्पृश जातवेदः समिद्धः । आ जिह्वया मूरदेवान्रभस्व क्रव्यादो वृक्त्व्यपि धत्स्वासन् ॥
अयो॑दंष्ट्रो अ॒र्चिषा॑ यातु॒धाना॒नुप॑ स्पृश जातवेद॒: समि॑द्धः । आ जि॒ह्वया॒ मूर॑देवान्रभस्व क्र॒व्यादो॑ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ॥
áyo-daṃṣṭro arcíṣā yātu-dhānān úpa spṛśa jāta-vedaḥ sámiddhaḥ | ā́ jihváyā mū́ra-devān rabhasva krav-yā́do vṛktvī́ ápi dhatsvā́san ||
O Jātavedas, fully kindled, touch the yātudhānas with your flame, with iron fangs; with your tongue seize the brutish godless powers. Cut them down—let the eater of rawness fasten upon them, sitting firm.
अयः॑ऽदंष्ट्रः । अ॒र्चिषा॑ । या॒तु॒ऽधाना॑न् । उप॑ । स्पृ॒श॒ । जा॒त॒ऽवे॒दः॒ । सम्ऽइ॑द्धः । आ । जि॒ह्वया॑ । मूर॑ऽदेवान् । र॒भ॒स्व॒ । क्र॒व्य॒ऽअदः॑ । वृ॒क्त्वी । अपि॑ । ध॒त्स्व॒ । आ॒सन् ॥अयःदंष्ट्रः । अर्चिषा । यातुधानान् । उप । स्पृश । जातवेदः । सम्इद्धः । आ । जिह्वया । मूरदेवान् । रभस्व । क्रव्यअदः । वृक्त्वी । अपि । धत्स्व । आसन् ॥ayaḥ-daṃṣṭraḥ | arciṣā | yātu-dhānān | upa | spṛśa | jāta-vedaḥ | sam-iddhaḥ | ā | jihvayā | mūra-devān | rabhasva | kravya-adaḥ | vṛktvī | api | dhatsva | āsan